वांछित मन्त्र चुनें

अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् । पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ vām bhāgo nihito yajatremā giro nāsatyopa yātam | pibataṁ somam madhumantam asme pra dāśvāṁsam avataṁ śacībhiḥ ||

पद पाठ

अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । य॒ज॒त्रा॒ । इ॒माः । गिरः॑ । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति॑ । प्र । दा॒श्वांस॑म् । अ॒व॒त॒म् । शची॑भिः ॥ ८.५७.४

ऋग्वेद » मण्डल:8» सूक्त:57» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:28» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4